स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः । आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन् ॥
स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः । आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन् ॥
मल्लिनाथः
स्फुरदिति ॥ यस्यां पुरि क्षणदासु रात्रिषु नार्यः स्फुरद्भिस्तुषारांशोश्चन्द्रस्य मरीचिजालैश्चन्द्रिकाभिः विनिह्नुता अपहृताः । तदेकरूपतापत्तेरगृह्यमाणा इत्यर्थः । अत एव सामान्यालंकारः । `सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता` इति लक्षणात् । स्फाटिकानां स्फटिकविकाराणां सौधानां पङ्क्तीरारुह्य नभोगता देव्यो देवाङ्गना इव । देवशब्दस्य पचादिषु देवडिति पाठात् `टिड्ढाणञ्-` (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप् । व्यराजन् । सौधानामग्रहणादभ्रंकषत्वात् तत्र लक्ष्यमाणाः स्त्रियः खेचर्य इव रेजुरित्यर्थः । अत्र नभोगतत्वोत्प्रेक्षायाः पूर्वाक्तसामान्यसापेक्षत्वात्संकरः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.