Loading data... On slow networks this could take a few minutes.
100%

कुतूहलेन जवादुपेत्य
प्राकारभित्या सहसा निषिद्धः ।
रसन्नरोदीद्भृशमम्बुवर्ष-
व्याजेन यस्या बहिरम्बुवाहः ॥

मल्लिनाथः कुतूहलेनेति ॥ अम्बु वहतीत्यम्बुवाहो मेघः । कर्मण्यण् । कुतूहलेनान्त:प्रवेशकौतुकेनेवेति हेतूत्प्रेक्षा । जवादुपेत्य यस्याः प्राकारभित्त्या सहसा निषिद्धो निवारितः अत एव बहिरेव रसन् गर्जन् । दुःखात् क्रन्दंश्चेति श्लेषः । अम्बुवर्षव्याजेन भृशमरोदीत् अश्रूणि मुक्तवान् । `रुदिर् अश्रुविमोचने` लङ् `रुदश्च पञ्चभ्यः` (अष्टाध्यायी ७.३.९८ ) इतीडागमः । अत्राम्बुवर्षव्याजेनोत्पादकस्योक्तश्लेषोत्प्रेक्षासापेक्षत्वात्संकरः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
कु तू ले वा दु पे त्य
प्रा का भि त्या सा नि षि द्धः
न्न रो दी द्भृ म्बु र्ष
व्या जे स्या हि म्बु वा हः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.