Loading data... On slow networks this could take a few minutes.
100%

यच्छालमुत्तङ्गतया विजेतुं
दूरादुदस्थीयत सागरस्य ।
महोर्मिभिव्याहतवाञ्छितार्थै-
र्वीडादिवाभ्याशगतैर्विलिल्ये ॥

मल्लिनाथः यच्छालमिति ॥ सागरस्य महोर्मिभिः कर्तृभिर्यच्छालं यस्याः प्राकारम् । `प्राकारो वरणः शालः` इत्यमरः । उत्तुङ्गतया औन्नत्यगुणेन । जेतुमिवेत्यर्थः । फलोत्प्रेक्षेयं व्यञ्जकाप्रयोगाद्गम्या । दूरादुदस्थीयतोत्थितम् । भावे लङ् । अभ्यासगतैः समीपगतैः । `समीपे निकटाभ्याससंनिकृष्टसनीडवत्` इत्यमरः । व्याहतो वान्छितार्थः शालविजयरूपो येषां तैः । विजयाक्षमैरित्यर्थः । अत एव व्रीडादिवेति हेतूत्प्रेक्षा । ऊर्मिभिर्विलिल्ये विलीनम् । लीयतेर्भावे लिट् । अत्र शक्तस्याप्यविजिगीषोर्व्रीडानुदयात् सापेक्षत्वेनोत्प्रेक्षयोः संकरः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
च्छा मु त्त ङ्ग या वि जे तुं
दू रा दु स्थी सा स्य
हो र्मि भि व्या वा ञ्छि ता र्थै
र्वी डा दि वा भ्या तै र्वि लि ल्ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.