अम्भुच्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः । त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः ॥
अम्भुच्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः । त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः ॥
मल्लिनाथः
अम्भ इति ॥ यत्र पुरि अपांनिधिः समुद्रः । अम्भश्च्योतन्ति क्षरन्तीत्यम्भश्युतो जलस्राविणः अत एव फेनैः पिनद्धभासः पिहितकान्तीन् । अपिपूर्वान्नह्यतेः कर्मणि क्तः । `वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः` इत्यपेरकारलोपः । कोमलानुत्कृष्टान् रत्नराशीनातपे दातुं शोषणार्थं निधातुमिवेति फलोत्प्रेक्षा। तल्पेष्वट्टेषु अधितल्पम् । `तल्पं शय्याट्टदारेषु` इत्यमरः । विभक्त्यर्थेऽव्ययीभावः । तरङ्गैरेव हस्तैर्विस्तारयामास प्रसारितवान् । अत्रातपदानस्य तरङ्गहस्तसाध्यत्वेनोत्प्रेक्षारूपकयोः संकरः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.