मृणालसूत्रामलमन्तरेण
स्थितश्चलचामरयोर्द्वयं सः ।
भेजेऽभितःपातुकसिद्धसिन्धो-
रभूतपूर्वां रुचमम्बुराशेः ॥

मल्लिनाथः मृणालेति ॥ मृगालसूत्रामलं बिसतन्तुविशदमित्युपमा । चलन्ती च ते चामरे च चलच्चामरे । वीजनादिति भावः । तयोर्द्वयमन्तरेण स्थितः । द्वयस्य मध्ये स्थित इत्यर्थः । `अन्तरान्तरेण युक्ते` (अष्टाध्यायी २.३.४ ) इति द्वितीया । स हरिरभितःपातुका उभयतःपातिनी सिद्धसिन्धुराकाशगङ्गा यस्य स तथोक्तः । `पर्यभिभ्यां च` (अष्टाध्यायी ५.३.९ ) इति तसिल्प्रत्ययः । `सर्वोभयार्थवर्तमानाभ्यामिष्यते` इत्युभयार्थत्वम् । सुप्सुपेति समासः । पातुकेति । `लषपत-` (अष्टाध्यायी ३.२.१५४ ) इत्यादिना उकञ्प्रत्ययः । तस्याम्बुराशेः समुद्रस्याभूतपूर्वां पूर्वमभूताम् । सुप्सुपेति समासः । रुचं कान्तिं भेजे । अत एव निदर्शना । सा चाम्बुराशेः संभावनामात्रोक्त्या अभितःपातुकसिद्धसिन्धुसंबन्धमूलया असंबन्धे संबन्धरूपातिशयोक्त्या स्वोपजीवकसंयोगेन संकीर्यत इति संक्षेपः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मृ णा सू त्रा न्त रे
स्थि श्च चा यो र्द्व यं सः
भे जे ऽभि तः पा तु सि द्ध सि न्धो
भू पू र्वां रु म्बु रा शेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.