Loading data... On slow networks this could take a few minutes.
100%

वणिक्पथे पूगकृतानि यत्र
भ्रमागतैरम्बुभिरम्बुराशिः ।
लोलैरलोद्युतिभाञ्जि
मुष्णन्रत्नानि रत्नाकरतामवाप ॥

मल्लिनाथः वणिक्पथ इति ॥ यत्र यस्यां पुरि वणिजां पथि वणिक्पथे आपणे अपूगाः पूगाः संपद्यमानानि कृतानि पूगकृतानि पुञ्जीकृतानि । `श्रेण्यादयः कृतादिभिः` (२।११५९) इति समासः । श्रेण्यादिषु च्व्यर्थवचनमिति च्व्यर्थता । अलोलद्युतिभाञ्जि स्थिरप्रभावन्ति रत्नानि लोलैश्चलैः । अत एव भ्रमागतैर्जलनिर्गममार्गादागतैः । `भ्रमाश्च जलनिर्गमाः` इत्यमरः । अम्बुभिर्मुष्णन् अपहरन् , अम्बुराशिरर्णवः । जलमात्रसारोऽपीति भावः । रत्नाकरतामवाप प्राप । न तु प्रागिति भावः । अम्बुराशेः प्राग्रन्तसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः । तथा च पुर्याः समुद्रातिशायिनी रत्नसमृद्धिर्वस्तु व्यज्यते
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३
णि क्प थे पू कृ ता नि त्र
भ्र मा तै म्बु भि म्बु रा शिः
लो लै लो द्यु ति भा ञ्जि
मु ष्ण न्र त्ना नि त्ना ता वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.