Loading data... On slow networks this could take a few minutes.
100%

यस्याश्चलद्वारिधिवीचिछ्छटोच्छलच्छङ्खकुलाकुलेन ।
वप्रेण पर्न्तचरोडुचक्रः सुमेरुवप्रोऽहमन्वकारि ॥

मल्लिनाथः यस्या इति ॥ चलन्तीनां वारिधिवारिवीचीनां छटासु परम्परासूच्छलद्भिरु त्पतद्भिः शङ्खानां कुलैराकुलेन संकीर्णेन यस्याः पुरो वप्रेण प्राकारेण पर्यन्ते चरतीति तत्तादृशमुडुचक्रं नक्षत्रमण्डलं यस्य सः सुमेरोर्वप्रः सानुः । `सानुप्राकारयोर्वप्रम्` इत्युभयत्रापि सज्जनः । अहन्यहनीत्यन्वहम् । `अव्ययं विभक्ति-` (अष्टाध्यायी २.१.६ ) इत्यादिना यथार्थेऽव्ययीभावः । `अनश्च` (अष्टाध्यायी ५.४.१०८ ) `नपुंसकादन्यतरस्याम्` (अष्टाध्यायी ५.४.१०९ ) इति समासान्तोऽच् । अन्वकार्यनुकृतः । तत्साम्यं प्रापित इत्यर्थः । मेरूपमानाद्वप्रस्य तत्तुल्यमौन्नत्यं व्यज्यते
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३
स्या श्च द्वा रि धि
वी चि छ्छ टो च्छ च्छ ङ्ख कु ला कु ले
प्रे र्न्त रो डु
क्रः सु मे रु प्रो ऽह न्व का रि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.