रथाङ्गभर्त्रेऽभिनवं वराय
यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्गभाजो
रत्नवलीरम्बुधिराबबन्ध ॥

मल्लिनाथः रथाङ्गेति ॥ अम्बुधिः पितेव वराय श्रेष्ठाय, जामात्रे च । `वरो जामातरि श्रेष्टे` इति विश्वः । रथाङ्गभर्त्रे चक्रधराय हरयेऽभिनवं यथा तथा प्रतिपादितायाः । अङ्कः समीपं, उत्सङ्गश्च तद्भाजः। `अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः` इति केशवः । यस्याः पुर उपकण्ठमन्तिके । अत्यन्तसंयोगे द्वितीया । अन्यत्र कण्ठे । विभक्त्यर्थेऽव्ययीभावः । मुहुः प्रेम्णा रत्नावलीराबबन्ध आसमन्ताद्बबन्ध । श्लेषानुप्राणितेयमुपमेति संकरः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
था ङ्ग र्त्रे ऽभि वं रा
स्याः पि ते प्र ति पा दि ता याः
प्रे म्णो ण्ठं मु हु ङ्ग भा जो
त्न ली म्बु धि रा न्ध
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.