त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा । अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ॥
त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा । अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ॥
मल्लिनाथः
त्वष्टुरिति ॥ त्वष्टुर्विश्वकर्मणः सदाभ्यासेन गृहीतो लब्धो यः शिल्पविज्ञानसंपदः प्रसरः प्रकर्षस्तस्य सीमाऽवधिः । अप्रतिमेति यावत् । या पूरादर्शतलामलेषु दर्पणपृष्ठस्वच्छेषु । `दर्पणे मुकुरादर्शौ` इत्यमरः । जलधेर्जलेषु स्वः स्वर्गस्य । `स्वरव्ययं स्वर्गनाक-` इत्यमरः । छाया प्रतिबिम्बमिवादृश्यतेत्युत्प्रेक्षा । `छाया त्वनातपे कान्तौ प्रतिबिम्बार्कजाययोः` इति वैजयन्ती
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.