Loading data... On slow networks this could take a few minutes.
100%

कृतास्पदा भूमिभृतां सहस्रै-
रुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा
पृथिवी पृथिव्याः प्रतियातनेव ॥

मल्लिनाथः कृतास्पदेति ॥ भूमिभृतां राज्ञां, गिरीणां च सहस्रैः कृतास्पदा कृताधिष्ठाना । `आस्पदं प्रतिष्ठायाम्` (अष्टाध्यायी ६.१.१४६ ) इति निपातः । उदकमस्यास्तीत्युदन्वानुदधिः । `उदन्वानुदधिः सिन्धुः` इत्यमरः । `उदन्वानुदधौ च` (अष्टाध्यायी ८.२.१३ ) इति निपातनात्साधुः । तस्याम्भोभिः परिवीता परिवेष्टिता मूर्तिः स्वरूपं यस्याः सा पृथ्वी पृथुः । `वोतो गुणवचनात्` (४॥१॥४४) इति ङीप् । एवंभूता या पू: न निर्विद्यते न खिद्यते इत्यनिर्वित् । विदेर्ज्ञानार्थत्वान्निःपूर्वात् `सत्सूद्विष-` (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । तेनानिर्विदा अखिन्नेन । अन्यथा शिल्पसौष्ठवासिद्वेरिति भावः । विधात्रा प्रथत इति पृथिवी भूः । प्रथेरौणादिकः षिवन् । `षिद्गौरादिभ्यश्च` (अष्टाध्यायी ४.१.४१ ) इति ङीष् । तस्याः प्रतियातना प्रतिकृतिरिव विदधे विहिता । `प्रतियातना प्रतिच्छाया । प्रतिकृतिः` इत्यमरः । भूप्रतिनिधित्वोत्प्रेक्षया पुरो वैचित्र्यविस्तारादिवस्तु व्यज्यते
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
कृ ता स्प दा भू मि भृ तां स्रै
रु न्व म्भः रि वी मू र्तिः
नि र्वि दा या वि धे वि धा त्रा
पृ थि वी पृ थि व्याः प्र ति या ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.