मध्येसमुद्रं ककुभः पिशङ्गी-
र्या कुर्वती काञ्चनवप्रभासा ।
तुरङ्गकान्तामुखहव्यवाह-
ज्वालेव भित्वा जलमुल्ललास ॥
मध्येसमुद्रं ककुभः पिशङ्गी-
र्या कुर्वती काञ्चनवप्रभासा ।
तुरङ्गकान्तामुखहव्यवाह-
ज्वालेव भित्वा जलमुल्ललास ॥
र्या कुर्वती काञ्चनवप्रभासा ।
तुरङ्गकान्तामुखहव्यवाह-
ज्वालेव भित्वा जलमुल्ललास ॥
मल्लिनाथः
मध्य इति ॥ समुद्स्य मध्ये मध्येसमुद्गम् । `पारे मध्ये षष्ठ्या वा` (२॥ १११८) इति विकल्पादव्ययीभावः । मध्यशब्दस्य तत्संनियोगादेकारान्तत्वम् । काञ्चनवप्रभासा हेमप्राकारप्रभया ककुभो दिशः पिशङ्गीः पिङ्गलवर्णाः । गौरादित्वान्ङीष् । कुर्वती या पू: जलं समुद्रोदकं भित्त्वा । उत्थितेति शेषः । तुरङ्गकान्ताया वडवाया मुखे हव्यं वहतीति हव्यवाहोऽग्निः । कर्मण्यण्प्रत्ययः । तस्य वाडवाग्नेर्वालेवोल्लास उद्बभासे । अत्र समुद्रान्तर्लीनायां वडवानलज्वालायां कदाचिसंभाव्यमानस्य मध्योल्लसनस्य पुरि दर्शनाभेदाध्यवसायेनास्या ज्वालात्वमुत्प्रेक्षते ।&#३२; इवशब्दोऽयमुत्प्रेक्षाया एव व्यञ्जको नोपमायाः, ईदृग्ज्वालाया अप्रसिद्धत्वेनोपमानत्वायोगात् । `मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥` इत्याचार्यदण्डी
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| म | ध्ये | स | मु | द्रं | क | कु | भः | पि | श | ङ्गी |
| र्या | कु | र्व | ती | का | ञ्च | न | व | प्र | भा | सा |
| तु | र | ङ्ग | का | न्ता | मु | ख | ह | व्य | वा | ह |
| ज्वा | ले | व | भि | त्वा | ज | ल | मु | ल्ल | ला | स |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.