जगत्पवित्रैःअपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यत अर्कः । यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥
जगत्पवित्रैःअपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यत अर्कः । यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥
मल्लिनाथः
जगदिति ॥ अर्को जगत्पूज्यं तं हरिं अत एव जगत्पवित्रैरपि पादैश्चरणैः किरणैश्च स्पष्टुं नायुज्यत नार्हत । युजेर्दैवादिकात्कर्तरि लङ् । कुतः । यतस्तस्य हरेर्बृहद्विपुलं पार्वणचन्द्रचारु, पूर्णेन्दुसुन्दरमित्युपमालंकारः । आतपात्रायत इत्यातपत्रं छत्रम् । `सुपि` (अष्टाध्यायी ३.२.४ ) इति योगविभागात् कः । बिभरांबभूवे दध्ने । भृञः कर्मणि लिट् `भीह्रीभृहुवाम्` (३।१॥३९) इति विकल्पादाम्प्रत्ययः । आतपत्रान्तर्हितस्य द्वयैरपि पादैः स्प्रष्टुमशक्यत्वादित्यर्थः । जगत्पूज्यस्य हरेः पादेन स्पर्शनिषेधादिति भावः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.