यियासतस्तस्य महीधरन्ध्र-
भिदपटीयान्पटहप्रणादः ।
जलान्तराणीव महार्णवौघः
शशब्दान्तराण्यन्तरायाञ्चकार ॥

मल्लिनाथः यियासत इति ॥ यातुमिच्छतो यियासतः । यातेः सन्नन्ताल्लटः शत्रादेशः । तस्य हरेः संबन्धी महीं धरन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कप्रत्ययः। यदाह वामनः-`महीध्रादयो मूलविभुजादिदर्शनात्` इति । तेषां रन्ध्राणि बिलानि तेषां भिदा भेदनम् । `षिद्भिदादिभ्योऽङ्` (अष्टाध्यायी ३.३.१०४ ) । तस्यां पटीयान् समर्थतरः पटहप्रणाद आनकघोषः महार्णवस्यौघः समुद्रस्य प्रवाहः । अन्यानि जलानि जलान्तराणीव । `सुप्सुपा-` इति समासः । अन्यान् शब्दान् शब्दान्तराणि । पूर्ववत्समासः । अन्तरयांचकार अन्तर्हितानि चकार । छादयामासेत्यर्थः । अन्तरशब्दादन्तर्धानार्थात् `तत्करोति-` (ग०) इति ण्यन्ताल्लिट् । `अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थे` इत्युभयत्राप्यमरः
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
यि या स्त स्य ही न्ध्र
भि टी या न्प प्र णा दः
ला न्त रा णी हा र्ण वौ घः
ब्दा न्त रा ण्य न्त रा या ञ्च का
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.