यतः स भर्ता जगतां जगाम
धर्त्रा धरित्र्याः फणिनाततोऽधः ।
महाभराभुग्नशिरःसहस्र-
सहायकव्यग्रभुजं प्रसस्रे ॥

मल्लिनाथः यत इति ॥ जगतां भर्ता धारयिता । कुक्षिस्थाखिललोक इत्यर्थः । `कर्तृकर्मणोः कृति` (अष्टाध्यायी २.३.६५ ) इति कर्मणि षष्ठी । स हरिर्यतो येन भूमार्गेण जगाम ततस्तस्मिन्भूभागे अधः पाताले धरित्र्या धरण्याः धर्त्रा धारयित्रा । पूर्ववत्षष्टी । फणिना शेषेण महता भरेण आसमन्ताद्भुग्नस्य कुब्जीभूतस्य शिरःसहस्रस्य सहायके सहायकर्मणि । `योपधाद्गुरूपोत्तमाद्वुञ्` (अष्टाध्यायी ५.१.१३२ ) व्यग्राः त्वरमाणा भुजा यस्मिंस्तद्यथा तथा प्रसस्रे प्रसृतम् । भावे लिट् । हरिश्चचालेत्यर्थः । अत्र शेषस्य विशिष्टप्रसरणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
तः र्ता तां गा
र्त्रा रि त्र्याः णि ना तो ऽधः
हा रा भु ग्न शि रः स्र
हा व्य ग्र भु जं प्र स्रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.