ध्वजाग्रधामा ददृशेऽथशौरैः
संक्रन्तमूर्तिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसाया-
स्तलं विवक्षन्निव पन्नगारिः ॥

मल्लिनाथः ध्वजेति ॥ अथ रथारोहणानन्तरं शौरेः कृष्णस्य ध्वजाग्रं धाम स्थानं यस्य सः मणिमेदिनीषु मणिमयकुट्टिमेषु संक्रान्तमूर्तिः प्रतिबिम्बिताङ्गः सन् पन्नगारिर्गरुत्मान् फणावतः सर्पान् त्रासयितुं द्रावयितुं रसायास्तलं पातालं विविक्षन् । प्रवेष्टुमिच्छन्निवेत्युत्प्रेक्षा । विशतेः सन्नन्ताल्लटः शत्रादेशः । ददृशे दृष्टः । सोऽपि संनिहितोऽभूदित्यर्थः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ध्व जा ग्र धा मा दृ शे ऽथ शौ रैः
सं क्र न्त मू र्ति र्म णि मे दि नी षु
णा स्त्रा यि तुं सा या
स्त लं वि क्ष न्नि न्न गा रिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.