कौबेरदिग्भागमपास्य मार्गमा-
गस्त्यमिव आशुःइव अवतार्णः ।
अपेतयुद्धाभिनिवेशसौम्यो
हरिहरप्रस्थमथ प्रतस्थे ॥

मल्लिनाथः कौबेरेति ॥ अथोद्धववाक्यश्रवणानन्तरम् । अपेतो युद्धेऽभिनिवेश आग्रहो यस्य सः । शान्तक्रोध इत्यर्थः । अत एव सौम्यः प्रसन्नः । अत एव कौबेर्या दिशो भागम् । उत्तरायणमित्यर्थः । `स्त्रियाः पुंवत्-` (अष्टाध्यायी ६.३.३४ ) इत्यादिना पुंवद्भावः । तमपास्य त्यक्त्वा, अगस्त्यस्येममागस्त्यं मार्गमवतीर्णः । दक्षिणायनं गत इत्यर्थः । उष्णांशुरिव स्थितः । अनेन हरेः क्रोधः कार्यवशादाकालमन्तःस्तम्भितो, न त्वेकान्ततो निवृत्त इति सूचितम् । हरिः कृष्णो हरिप्रस्थमिन्द्रप्रस्थं प्रतस्थे प्रचचाल । `इन्द्रो दुश्च्यवनो हरिः` इति हलायुधः। `समवप्रविभ्यः स्थः` (अष्टाध्यायी १.३.२२ ) इत्यात्मनेपदम् । `देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्` इति गन्तव्यस्य कर्मत्वम् । उपमालंकारः । सर्गेऽस्मिन्निन्द्रोपेन्द्रवज्रामिश्रणादुपजातिवृत्तम् । `अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः` इति लक्षणात्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
कौ बे दि ग्भा पा स्य मा र्ग मा
स्त्य मि शुः ता र्णः
पे यु द्धा भि नि वे सौ म्यो
रि प्र स्थ प्र स्थे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.