न केवलं यः स्वतया
मुरारेरसाधारणतां दधान्-
अः अत्यर्थमुद्वेजयिता परेष्-
आं नाम्नापि तस्यैव नन्दकोऽभ्-
ऊत्

मल्लिनाथः न केवलमिति ॥ अन्यस्य साधारणो न भवतीत्यनन्यसाधारणस्तस्य भावस्तत्ता तां दधानः, तथापि यो नन्दकः स्वतया केवलं गजाश्वादिवत्स्वत्वेनैव मुरारेर्नन्दको न, किंतु परेषां शत्रूणामत्यर्थमुद्वेजयिता भीषयिता सन् । अत एव नाम्नापि चन्द्रादिवन्नन्दयतीति नन्दक इत्यन्वर्थसंज्ञाबलेनापि । नन्दयितृत्वेनापीति यावत् । तस्यैव तदीय एव योऽनन्यसाधारणत्वात्परोद्वेजकत्वाच्च तस्यैव ।&#३२; नन्दको, नन्दयिता चेत्यर्थः । स नन्दको नन्दकाख्यः खड्गोऽभूत् । संनिहितोऽभूदित्यर्थः । संबन्धानुवादेन संनिधानमेवात्र विधेयं प्रकरणात् । अत्रानन्यसाधारणत्वपरोद्वेजकत्वंपदार्थाभ्यां विशेषणगत्या नन्दकस्य तदीयतासमर्थनात् पदार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
के लं यः स्व या मु
रा रे सा धा तां धा नः
त्य र्थ मु द्वे यि ता रे षां
ना म्ना पि स्यै न्द को ऽभूत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.