न केवलं यः स्वतया
मुरारेरसाधारणतां दधान्-
अः अत्यर्थमुद्वेजयिता परेष्-
आं नाम्नापि तस्यैव नन्दकोऽभ्-
ऊत्
न केवलं यः स्वतया
मुरारेरसाधारणतां दधान्-
अः अत्यर्थमुद्वेजयिता परेष्-
आं नाम्नापि तस्यैव नन्दकोऽभ्-
ऊत्
मुरारेरसाधारणतां दधान्-
अः अत्यर्थमुद्वेजयिता परेष्-
आं नाम्नापि तस्यैव नन्दकोऽभ्-
ऊत्
मल्लिनाथः
न केवलमिति ॥ अन्यस्य साधारणो न भवतीत्यनन्यसाधारणस्तस्य भावस्तत्ता तां दधानः, तथापि यो नन्दकः स्वतया केवलं गजाश्वादिवत्स्वत्वेनैव मुरारेर्नन्दको न, किंतु परेषां शत्रूणामत्यर्थमुद्वेजयिता भीषयिता सन् । अत एव नाम्नापि चन्द्रादिवन्नन्दयतीति नन्दक इत्यन्वर्थसंज्ञाबलेनापि । नन्दयितृत्वेनापीति यावत् । तस्यैव तदीय एव योऽनन्यसाधारणत्वात्परोद्वेजकत्वाच्च तस्यैव ।&#३२; नन्दको, नन्दयिता चेत्यर्थः । स नन्दको नन्दकाख्यः खड्गोऽभूत् । संनिहितोऽभूदित्यर्थः । संबन्धानुवादेन संनिधानमेवात्र विधेयं प्रकरणात् । अत्रानन्यसाधारणत्वपरोद्वेजकत्वंपदार्थाभ्यां विशेषणगत्या नन्दकस्य तदीयतासमर्थनात् पदार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः
इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| न | के | व | लं | यः | स्व | त | या | मु | ||
| रा | रे | र | सा | धा | र | ण | तां | द | धा | नः |
| अ | त्य | र्थ | मु | द्वे | ज | यि | ता | प | रे | षां |
| ना | म्ना | पि | त | स्यै | व | न | न्द | को | ऽभूत् | |
| त | त | ज | ग | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.