Loading data... On slow networks this could take a few minutes.
100%

विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती ।
नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः ॥

मल्लिनाथः विरोधिनामिति ॥ विरोधिनां वैरिणां विग्रहभेदे शरीरविदारणे दक्षा । `शरीरं वर्ष्म विग्रहः` इत्यमरः । क्वचित्क्वाप्यस्खलन्ती । सर्वत्राप्रतिहतवृत्तिरित्यर्थः । नित्यं संनिहिता अनपायिनी । अत एव मूर्ता मूर्तिमती शक्तिः सामर्थ्यमिव स्थितेत्युत्प्रेक्षा । कौमोदकी गदा हरेश्चेतो निकामं मोदयति स्म । स्वसंनिधानेनेति भावः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
वि रो धि नां वि ग्र भे क्षा
मू र्ते क्तिः क्व चि स्ख न्ती
नि त्यं रेः सं नि हि ता नि का मं
मो ति स्म चे तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.