Loading data... On slow networks this could take a few minutes.
100%

न नीतमन्येन नतिं कदाचि-
कर्णान्तिकप्रप्तगुणं क्रयासु ।
विधेयमस्या भवदन्तिकस्थं
शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥

मल्लिनाथः न नीतमिति ॥ अन्येन पुरुषान्तरेण नतिमाकर्षणं भेदेन स्वानुकूल्यं च न नीतं न प्रापितम्, क्रियासु रणकर्मसु, हिताहितकृत्येषु च कर्णान्तिकं कर्णगोचरं प्राप्तो गुणो मौर्वी, आप्तताधर्मश्च यस्य तद्विधेयं क्रियासु वश्यं दृढीयः दृढतरम् । पीडासहतरमिति यावत् । शृङ्गस्य विकारः शार्ङ्गं नाम धनुः मित्रमिवास्य हरेरन्तिकस्थं संनिहितमभवत्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
नी न्ये तिं दा चि
र्णा न्ति प्र प्त गु णं क्र या सु
वि धे स्या न्ति स्थं
शा र्ङ्गं नु र्मि त्र मि द्र ढी यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.