Loading data... On slow networks this could take a few minutes.
100%

तस्यातसीसून समानभासो
भ्राम्यन्मयूखावलीमण्डलेन ।
चक्रेण रेजे यमुनाजलौघः
स्फुरन्महागर्त इवैकबाहुः ॥

मल्लिनाथः तस्येत्यादि । अतसीसूनेन क्षुमाकुसुमेन समानभासस्तुल्यकान्तेः । स्निग्धश्यामस्येत्यर्थः । `अतसी स्यादुमा क्षुमा` इत्यमरः । तस्य हरेरेकबाहुः भ्राम्यदावर्तमानं मयूखावलीनां मण्डलं चक्रवालं यस्य तेन चक्रेण सुदर्शनेन स्फुरन्महानावर्तो” भ्रमो यस्य सः । `स्यादावर्तोऽम्भसां भ्रमः` इत्यमरः। यमुनाजलानामोघः पूर इव रेजे । चक्रं दधावित्यर्थः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्या सी सू मा भा सो
भ्रा म्य न्म यू खा ली ण्ड ले
क्रे रे जे मु ना लौ घः
स्फु न्म हा र्त वै बा हुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.