Loading data... On slow networks this could take a few minutes.
100%

प्राणच्छिदां दैत्यपतेर्नखाना-
मुपेयुषां भूषणतां क्षतेन ।
प्रकाशकार्कश्यगुणै दधानाः
स्तनौ तरुण्यः परिव्रुरेनम् ॥

मल्लिनाथः प्राणेति ॥ भूषणतामुपेयुषाम्, न तु प्रहरणवतामिति भावः । दैत्यपतेः हिरण्यकशिपोः प्राणच्छिदां प्राणमुषां प्राणापहारिणाम् । वज्रादपि कठोराणामित्यर्थः । नखानां क्षतेन व्रणेन प्रकाशो व्यक्तः कार्कश्यमेव गुणो ययोस्तौ स्तनौ । स्तनानित्यर्थः । जातावेकवचने प्राप्ते जातिभूयस्सु स्तनादिषु जातेर्द्वित्वविशिष्टत्वाद्विवचनम् । यथाह वामनः-`स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण` इति । दधानास्तरुण्यो युवतयः । `वयसि प्रथमे` (अष्टाध्यायी ४.१.२० ) इति ङीप् । एनं हरिं परिवव्रुः । अत्र हरिनखानां नरहरिनखभेदेऽप्यभेदोक्त्या स्तनयोश्च तादृक्काठिन्यासंबन्धेऽपि तत्संबन्धोक्त्यतिशयोक्ती तयोश्च सापेक्षत्वात्संकरः
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
प्रा च्छि दां दै त्य ते र्न खा ना
मु पे यु षां भू तां क्ष ते
प्र का का र्क श्य गु णै धा नाः
स्त नौ रु ण्यः रि व्रु रे नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.