आकर्षतेवोर्ध्वमतिक्रशीया-
नत्युन्नतत्वात्कुचमण्डलेन ।
ननाम मध्योऽतिगुरुत्वभाजा
नितान्तमाक्रान्त इवाङ्गनानाम् ॥

मल्लिनाथः आकर्षतेति ॥ अत्युन्नतत्वाद्धेतोः ऊर्ध्वमाकर्षतेव नमन्तम् । मध्यमुन्नमयतेव स्थितेनेत्युत्प्रेक्षा । अतिगुरुत्वमतिभारत्वम् , अतिप्रवृद्धत्वं च भजतीति भाक् । `भजो ण्विः` (अष्टाध्यायी ३.२.६२ ) तेनाङ्गनानां कुचमण्डलेनातिक्रशीयानत्यन्तकृशतरः तनीयान् , क्षीणश्च । `र ऋतो हलादेर्लघोः` (अष्टाध्यायी ६.४.१६१ ) इति रेफादेशः । मध्यो नितान्तमाक्रान्तः पीडित इव ननाम नतः, प्रणतश्च । अत्र मध्यकुचमण्डलयोर्विशेषणसाम्यादरिविजिगीषुराजप्रतीतेः समासोक्तिः । वाच्ययोः प्रतीयमानाभेदेनाक्रमणक्रियाकर्मकर्तृभावसंभावितेयं नमनस्याक्रमणहेतुकत्वोत्प्रेक्षेत्यनयोः संकरः । उत्प्रेक्षयोस्तु नैरपेक्ष्यादसंसृष्टिरेवेति विवेकः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
र्ष ते वो र्ध्व ति क्र शी या
त्यु न्न त्वा त्कु ण्ड ले
ना ध्यो ऽति गु रु त्व भा जा
नि ता न्त मा क्रा न्त वा ङ्ग ना नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.