कपाटविस्तीर्णमनोरमोरः-
स्थलस्थितश्रीललनस्य तस्य ।
आनन्दिताशेषजना बभूव
सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः ॥

मल्लिनाथः कपाटेति ॥ कपाटवद्विस्तीर्णे मनोरमे च उरःस्थले स्थिता श्रीरिति ललना कान्ता यस्य तस्य हरेरानन्दिताशेषजना सर्वाङ्गसङ्गिनी सकलदेहव्यापिनी अत एवापरैवासाधारण्येव श्रीदेव्या अन्यैव लक्ष्मीः शोभा, रमा च बभूव । स एवालंकारः । प्रायेणैकार्थमप्यनेकं श्लोकमुक्तिविशेषलाभाल्लिखन्ति कवयः । यथाह नैषधे-आदावेव `निपीय-` (१।१) इत्यादिश्लोकद्वयं; तथा `स्वकेलिलेश-` (१।२३) इत्यादिश्लोकद्वयं चेति
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
पा वि स्ती र्ण नो मो रः
स्थ स्थि श्री स्य स्य
न्दि ता शे ना भू
र्व ङ्ग ङ्गि न्य रै क्ष्मीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.