प्रसाधितस्यास्य मुधाद्विषोऽभू-
दन्यैव लक्ष्मीरिति युक्तमेतत् ।
वपुष्यशेषेऽखिललोककान्ता
सानन्यकान्ता ह्युरसीतरा तु ॥

मल्लिनाथः प्रसाधितस्येति ॥ प्रसाधितस्यालंकृतस्यास्य मधुद्विषो हरेः अन्यैवासदृशी, विभिन्ना च । `अन्यौ विभिन्नासदृशौ` इति वैजयन्ती । लक्ष्मीः शोभा, पद्मा च । `शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते` इति विश्वः । अभूदित्येतद्युक्तम् । कुतः । हि यस्मात् सा प्रसाधनरूपा लक्ष्मीरशेषे वपुषि । वसतीति शेषः । किंचाखिललोकस्य कान्ता प्रिया । इतरा नित्या त्वन्यस्य कान्ता प्रिया न भवतीत्यनन्यकान्ता । किंतु तस्यैवेत्यर्थः । उरसि । उरस्येव वसतीत्यर्थः । अत्र हरेः प्रसाधनादसाधारणी शोभा जातेति पारमार्थिको वाक्यार्थः । अत्र लक्ष्मीशब्देन श्लेष महिम्ना वाच्यायाः शोभायाः प्रतीयमानायाः श्रीदेव्या सहाभेदाध्यवसायादियमन्यैव लक्ष्मीरित्यभेदे भेदरूपातिशयोक्तिरलंकारः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
प्र सा धि स्या स्य मु धा द्वि षो ऽभू
न्यै क्ष्मी रि ति यु क्त मे तत्
पु ष्य शे षे ऽखि लो का न्ता
सा न्य का न्ता ह्यु सी रा तु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.