Loading data... On slow networks this could take a few minutes.
100%

स इन्द्रनीलसस्थलनीलमूर्ती
रराज कर्पूरपिशङ्गवासाः ।
विसृत्वरैरम्बुरुहां रजोभि-
र्यमस्वसुश्चित्र इवोदभारः ॥

मल्लिनाथः स इति ॥ इन्द्रनीलस्थलमिम नीलमूर्तिः श्यामाङ्गः । संहितायां रोरि` (अष्टाध्यायी ८.३.१४ ) इति रेफलोपः । `ढ्लोपे पूर्वस्य-` (अष्टाध्यायी ६.३.१११ ) इति दीर्घः । कर्चूरं हरितालमिव पिशङ्गं वासो यस्य स पीताम्बरो हरिः । `हरितालं तु कर्चूरम्` इति वैजयन्ती । स हरिर्विसृत्वरैर्विसृमरैः। `इण्नशजिसर्तिभ्यः क्वरप्` (अष्टाध्यायी ३.२.१६३ ) अम्बुरुहामम्बुजानाम् । रुहेः क्विप् । रजोभिः परागैश्चित्रश्चित्रवर्णो यमस्वसुर्यमुनाया उदकस्य भारः पूर उदभारः स इव रराज । `मन्थौदन-` (अष्टाध्यायी ६.३.६० ) इत्यादिनोदकस्योदादेशः
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
न्द्र नी स्थ नी मू र्ती
रा र्पू पि ङ्ग वा साः
वि सृ त्व रै म्बु रु हां जो भि
र्य स्व सु श्चि त्र वो भा रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.