Loading data... On slow networks this could take a few minutes.
100%

मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य । अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः ॥

मल्लिनाथः मुक्तेति ॥ अस्य हरेर्मुक्तामयं मुक्ताप्रचुरम् । `तत्प्रकृतवचने मयट्` (अष्टाध्यायी ५.४.२१ ) सारसने कटिसूत्रेऽवलम्बते इति सारसनावलम्बि । `क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु` इत्यमरः । आप्रपदीनम् । आ समन्तात् प्रपदं प्राप्नोतीति, खश्प्रत्ययः । `पादाग्रं प्रपदं पादः` इत्यमरः । दाम मुक्तासरः अङ्गुष्ठेन निष्ठ्यूतम् । विसृष्टमित्यर्थः । गौणार्थत्वादग्राम्यत्वम् । यथाह दण्डी-निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥` इति ऊर्ध्वमूर्ध्वप्रवाहमुच्चैरुन्नतं त्रिस्रोतसो मन्दाकिन्याः संततधारमविच्छिन्नसंपातमम्भ इव भाति स्मेत्युत्प्रेक्षा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.