ऋजुताफलयोगशुद्धिभाजां
गुरुपक्षाश्रयिणां शिलीमुखानाम् ।
गुणिना नतिमागतेन सन्धिः
सह चापेन समञ्जसो बभूव ॥

मल्लिनाथः शिशुपालवधे ऋजुतेति ॥ ऋजुता अवक्रत्वं अकुटिलबुद्धित्वं च फलं शल्यं, श्रेयश्च तेन योगः शुद्धिलॊहशुद्धिनिर्विषत्वं च, अन्यत्र बाह्याभ्यन्तरशुद्धिस्तां भजन्तीति तद्भाजां गुरोर्महतः पक्षस्य कङ्कादिपत्रस्य, सहायस्य चाश्रयः आश्रयणमेषामस्तीति गुरुपक्षाश्रयिणां शिलीमुखानां शराणाम् । गुणिना ज्यावता नतिमागतेन आकर्षणाकुञ्चितकोटित्वं, विधेयत्वं च प्राप्तेन चापेन सह संधिः संबन्धः समञ्जसः साधीयान्बभूव । अबलवतां बलिनाननेण संधिरेवोचित इति भावः । अत्र प्रस्तुतचापशिलीमुखयोर्विशेषणसाम्यादप्रस्तुतारिविजिगीषुवस्तुप्रतीतेः समासोक्तिः । तच्च साम्यं वाच्यप्रतीयमानयोरभेदाध्यवसायात्सिद्धम् । न चात्र समानालंकारशङ्का कार्या । `समानालंकृतिर्योगे वस्तुनोरनुरूपयोः` इत्यनुरूपयोरेव वस्तुनोर्योगेन तस्योपस्थानादित्यनुसंधेयम् । जिगीषुगुणयोगिनोरिह भेदात्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
जु ता यो शु द्धि भा जां
गु रु क्षा श्र यि णां शि ली मु खा नाम्
गु णि ना ति मा ते न्धिः
चा पे ञ्ज सो भू
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.