अविषह्यतमे कृताधिकारं
वशिना कर्मणि चेदिपार्थिवेन ।
अरसद्धनुरुच्चकैदृढार्ति-
प्रसभाकर्षणवेपमानजीवम् ॥

मल्लिनाथः अविषह्येति ॥ वशिना स्वतन्त्रेण चेदिपार्थिवेन अविषह्यतमे दुष्करे कर्मण्यरिजयव्यापारे कृताधिकारं कृतनियोगम् । नियुज्यमानमित्यर्थः । अत एव दृढयोरोः धनुष्कोट्योः प्रसभाकर्षणेन वेपमाना दोधूयमाना जीवा ज्या यस्य तत्, अन्यत्र दृढया. ताडनेन प्रसभाकर्षणेन च वेपमानः कम्पमानो जीवः प्राणो यस्येत्यर्थः । `अर्तिः पीडाधनुष्कोट्योः` इत्यमरः । `जीवः प्राणेऽस्त्रियां ना तु जन्तावात्मनि गीष्पतौ । त्रिषु जीवति मौव्या स्त्री` इति वैजयन्ती । धनुरुच्चकैररसत् अध्वनदाक्रन्दत् । यथा राज्ञा नियुक्तः पराधीनः बलादाकृष्यमाणः क्रोशति तद्वदित्यर्थः । अत्रापि प्रकृतविशेषणसाम्यादप्रकृतापराध्यधिकृतपुरुषप्रतीतेः समासोक्तिः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
वि ह्य मे कृ ता धि का रं
शि ना र्म णि चे दि पा र्थि वे
द्ध नु रु च्च कै दृ ढा र्ति
प्र भा र्ष वे मा जी वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.