समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवर्गैः । अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमध्यवर्षत् ॥
समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवर्गैः । अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमध्यवर्षत् ॥
मल्लिनाथः
समेति ॥ अथ धनुरास्फालनानन्तरं तरस्वी बलवान्स चैद्यः समकालमिवेत्युत्प्रेक्षा । अत्यन्तसंयोगे द्वितीया । अभिलक्षणीया दृश्या ग्रहो ग्रहणं संधानं मौर्व्या योजनं विकर्षणमाकर्षणमपवर्गों मोक्षश्च येषां तैः शरैः साभिसरं सानुचरमुपेन्द्रं हरिं तिरस्कर्तुमाच्छादयितुमभ्यवर्षत्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.