Loading data... On slow networks this could take a few minutes.
100%

मधुरैरपि भूयसा स मेध्यैः
प्रथमं प्रत्युत वारिभिर्दिदीपे ।
पवमानसखस्ततः क्रमेण
प्रणयक्रोध इवाशमद्विवादैः ॥

मल्लिनाथः मधुरैरिति ॥ इतीत्थं पवत इति पवमानो वायुः । `पूङ्यजोः शानन्` (अष्टाध्यायी ३.२.१२८ ) । तस्य सखा पवमानसखः अग्निः । `राजाहःसखिभ्यष्टच्` (५।४। ९१)। मैत्रीमात्रविवक्षायामयं निर्देशः । स्वसहकारिणी मैत्रीति नियमात्सहकारिस्वाविवक्षायां वैपरीत्याबहुव्रीहौ तु न समासान्तः । स्वामी तु `रोहिताश्वो वायुसखः` इत्यसमासान्तपाठेन बहुव्रीहिमाह । अत्रापि तथा पाठे न कश्चिदुपद्रवः । सोऽग्निः मधुरैः प्रियैरपि विवादैर्विविधवाक्यैः प्रणयक्रोधः प्रणयप्रयुक्तकोप इव शिशु० ४४&#३२; शिशुपालवधे मधुरैः स्वादुभिः । अनुद्दीपकैरित्यर्थः । मेध्यमवभवैः । `दिगादिभ्यो यत्` (अष्टाध्यायी ४.३.५४ ) । वारिभिः प्रथमं वैपरीत्येनापि `प्रत्युतेति वैपरीत्ये` इति गणव्याख्याने । भूयसा अत्यन्तम् । भृशमित्यर्थः । दिदीपे प्रजज्वाल । ततः क्रमेणाशमच्छान्तोऽभूत् । शाम्यतेर्लुंङि पुषादित्वाञ्चलेरङादेशः । जलाहतोऽग्निज्वलितो नश्यति, प्रणयकोपोऽपि प्रियैः भृशायित्वा शाम्यतीति प्रसिद्धम् । उपमा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
धु रै पि भू सा मे ध्यैः
प्र मं प्र त्यु वा रि भि र्दि दी पे
मा स्त तः क्र मे
प्र क्रो वा द्वि वा दैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.