Loading data... On slow networks this could take a few minutes.
100%

परितः प्रसभेन नीयमानः
शरवर्षैरवसायमाश्रयाशः ।
प्रबलेषु कृती चकार विद्यु-
द्व्यपदेशेन घनेष्वनुप्रवेशम् ॥

मल्लिनाथः परित इति ॥ परितः प्रसभेन बलात्कारेण शरवर्षीरसेकैः । `शरं नीरे शरो बाणे` इति विश्वः । अवसायमवसादं नीयमानः । कृती कुशलः । आश्रयमनातीत्याश्रयाशोऽग्निः । `कर्मण्यण्` (अष्टाध्यायी ३.२.१ ) । प्रबलेषु घनेषु मेघेषु विद्युध्यपदेशेन तडिच्छलेनानुप्रवेशं चकार । अस्ताग्निर्विद्युद्रूपेण मेघेष्वेव प्रविष्टः । बलवताभिभूतस्य विदेशगमनं तदनुप्रवेशो वेति नीतेरिति भावः । अत्र विशेषणसाम्यादग्नावप्रकृतदुर्बलत्वप्रतीतेः समासोक्तिः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
रि तः प्र भे नी मा नः
र्षै सा मा श्र या शः
प्र ले षु कृ ती का वि द्यु
द्व्य दे शे ने ष्व नु प्र वे शम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.