ज्वलतः शमनाय चित्रभानोः
प्रलयाप्लावमिवाभिदर्शयन्तः ।
ववृषुर्वृषनादिनो नदीनां
प्रतटारोपितवारि वारिवाहाः ॥

मल्लिनाथः ज्वलत इति ॥ ज्वलतश्चित्रभानोरग्नेः शमनाय` प्रलये कल्पान्ते य आप्लावो महापूरस्तमभिदर्शयन्त इवेत्युत्प्रेक्षा । वृषवद्वृषभवन्नदन्ति गर्जन्तीति वृषनादिनः । `कर्तर्युपमाने` (अष्टाध्यायी ३.२.७९ ) इति णिनिः । अत एवोपमा । वारि वहन्तीति वारिवाहा मेघाः । `कर्मण्यण` (अष्टाध्यायी ३.२.१ ) । नदीनां प्रतटेषु प्रतीरेषु आरोपितानि भावितानि वारीणि यस्मिन्कर्मणि तद्यथा तथा ववृषुः । प्रलयकालमेघवदवर्षन्नित्यर्थः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
ज्व तः ना चि त्र भा नोः
प्र या प्ला मि वा भि र्श न्तः
वृ षु र्वृ ना दि नो दी नां
प्र टा रो पि वा रि वा रि वा हाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.