तपनीयनिकर्षराजिगौर-
स्फुरदुत्तालतडिच्छटाट्टहासम् ।
अनुबद्धसमुद्धताम्बुवाह-
ध्वनिताडम्बरमम्बरं बभूव ॥

मल्लिनाथः तपनीयेति ॥ तपनीयस्य हेम्नो निकर्षराजयः कर्षणलेखा इव गौर्यः पीताः । `गौरोऽरुणे सिते पीते` इत्यमरः । स्फुरन्त्य उत्ताला उद्धतास्तडिच्छटा विद्युल्लता एवाट्टहासा यस्य तत्तथोक्तं अनुबद्धोऽनुस्यूतः समुद्धतस्तारोऽम्बुवाहानां ध्वनिताडम्बरो गर्जिताडम्बरो यस्य तदम्बरं बभूव । तदाम्बुवाहैर्विद्युत्प्रभाभिर्गर्जिताडम्बरैश्चाट्टहासं कुर्वद्भिरिवाम्बरं बभावित्यर्थः । व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
नी नि र्ष रा जि गौ
स्फु दु त्ता डि च्छ टा ट्ट हा सम्
नु द्ध मु द्ध ता म्बु वा
ध्व नि ता म्ब म्ब रं भू
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.