ककुभः कृतनादमास्तृणन्त-
स्तिरयन्तः पटलानि भानुभासम् ।
उदनंसिषुरभ्रमभ्रसङ्घाः
सपदि श्यामलिमानमानयन्तः ॥

मल्लिनाथः ककुभ इति ॥ कृतनादं कृतगर्जारावं यथा तथा ककुभ आस्तृणन्त आच्छा. दयन्तः । स्तृणातेर्लटः शत्रादेशः `नाभ्यस्तयोः-` (अष्टाध्यायी ६.४.११२ ) इत्याकारलोपः । भानुभासामांशूनां पटलानि तिरयन्तस्तिरस्कुर्वन्तः । तिरःशब्दात् `तत्करोति` (ग०) इति ण्यन्ताल्लटः शन्नादेशः। णाविष्टवद्भावाहिलोपः । अभ्रमाकाशं श्यामलिमानमानयन्तः श्यामलत्वं प्रापयन्तः अभ्रसङ्घा मेघौघाः सपदि सद्य उदनंसि विंशः सर्गः। ५१७ षुरुत्पेतुः । उत्पूर्वान्नमते ङि `यमरमनमातां सक्च` (अष्टाध्यायी ७.२.७३ ) इति सगिडागमौ `नेटि` (अष्टाध्यायी ७.२.४ ) इति वृद्धिप्रतिषेधः । स्वभावोक्तिः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
कु भः कृ ना मा स्तृ न्त
स्ति न्तः ला नि भा नु भा सम्
नं सि षु भ्र भ्र ङ्घाः
दि श्या लि मा मा न्तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.