Loading data... On slow networks this could take a few minutes.
100%

चतुरम्बुधिगर्भधीरकुक्षे-
र्वपुषः सन्धिषु लीनसर्वसिन्धोः ।
उदगुः सलिलात्मनस्त्रिधाम्नो
जलवाहावलयः शिरोरुहेभ्यः ॥

मल्लिनाथः चतुरिति ॥ चत्वारोऽम्बुधय एव गर्भास्ते धीरो गम्भीरः कुक्षिर्यस्य तस्य वपुषः संधिषु लीनाः सर्वाः सिन्धवो नद्यो यस्य तस्य सलिलात्मनस्तोयात्मकस्य त्रीणि धामानि स्थानानि भूरादीनि सत्त्वादीनि वा यस्य तस्य विधाम्नो हरेः शिरोरुहेभ्यो जलवाहावलयो मेघपरम्परा उदगुरुद्धभूवुः । `इणो गा लुङि` इति गादेशे `गातिस्था-` (अष्टाध्यायी २.४.७७ ) इत्यादिना सिचो लुक् । `यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने मनः ॥ (महाभारते शान्ति० ४७।६०) इत्यागमोक्तं प्रमाणमिति भावः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
तु म्बु धि र्भ धी कु क्षे
र्व पु षः न्धि षु ली र्व सि न्धोः
गुः लि ला त्म स्त्रि धा म्नो
वा हा यः शि रो रु हे भ्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.