Loading data... On slow networks this could take a few minutes.
100%

ज्वलदम्बरकोटरान्तरालं
बहुलार्द्राम्बुदपत्रबद्धधूमम् ।
परिदीपितदीर्घकाष्ठमुच्चै-
स्तरुवद्विश्वमुवोष जातवेदाः ॥

मल्लिनाथः ज्वलदिति ॥ जातं वेदो धनं यस्माजातवेदास्तनूनपात् । अम्बरं कोटरमिव तस्यान्तरालमभ्यन्तरं ज्वलद्यस्य तत् । बहुलाः सान्द्रा आर्द्राम्बुदाः पत्राणीव तेषु बद्धधूमम् । परिदीपिताः प्रज्वलिताः काष्ठा दिशः काष्टानीव यस्य तदुच्चैरुन्नतं विश्वं जगत् । तरुणा तुल्यं तरुवत् । तरुमिवेत्यर्थः । तुल्यार्थे वतिप्रत्ययः । उवोष ददाह । `उष दाहे` लिट् । लघूपधगुणे पश्चाविर्भावः । `अभ्यासस्यासवर्णे ` (६।४७८) इत्युवडादेशः अनादिष्टादच इति गुणस्य स्थानिवत्वाभावात् । तरुवदिति स्पष्टोपमालिङ्गात् । सर्वत्रोपमितसमासः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
ज्व म्ब को रा न्त रा लं
हु ला र्द्रा म्बु त्र द्ध धू मम्
रि दी पि दी र्घ का ष्ठ मु च्चै
स्त रु द्वि श्व मु वो जा वे दाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.