Loading data... On slow networks this could take a few minutes.
100%

गुरुतापविशुष्यदम्बुशुभ्राः
क्षणमालग्नकृशानुताम्रभासः ।
स्वमसारतया मषीभवन्तः
पुनराकारमवापुराम्बुवाहाः ॥

मल्लिनाथः गुर्विति ॥ गुरुतापेनातिदाहेन विशुष्यदम्बवः क्षीयमाणोदकाः अत एव शुभ्राश्चेति विशेषणसमासः। ततः क्षणमालग्नेन कृशानुना ताम्रभासो लोहितवर्णाः शिशुपालवधे अथासारतया जलशोषान्निःसारतया मषीभवन्तः अम्बुवाहाः पुनः स्वमाकारं नीलरूपमवापुः । अत्र मेघानां मषीभावाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
गु रु ता वि शु ष्य म्बु शु भ्राः
क्ष मा ग्न कृ शा नु ता म्र भा सः
स्व सा या षी न्तः
पु रा का वा पु रा म्बु वा हाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.