चलितोद्धतधूमकेतनोऽसौ
रभसादम्बररोहिरोहिताश्वः ।
द्रुतमारुतसारथिः शिखावा-
न्कनकस्यन्दनसुन्दरश्चचाल ॥

मल्लिनाथः चलितेति ॥ चलितश्चलंश्च उद्धत उन्नतश्च धूम एव केतनं केतुर्यस्य स रभसाद्वेगादम्बररोहिणो रोहिता वाहनमृगा अश्वा इव यस्य सः द्रुतमारुताः शीघ्रवाता एव सारथिर्यस्य सः कनकस्यन्दनसुन्दरः कनकद्रववगम्य इत्युपमा । असौ शिखा ज्वाला अस्य सन्तीति शिखावानाशुशुक्षणिश्चचाल
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
लि तो द्ध धू के नो ऽसौ
सा म्ब रो हि रो हि ता श्वः
द्रु मा रु सा थिः शि खा वा
न्क स्य न्द सु न्द श्च चा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.