सहसा दधदुद्धताट्टहास-
श्रियमुत्त्रासितजन्तुना स्वनेन ।
वियतायतहेतिबाहुरुच्चै-
रथ वेताल इवोत्पपात वह्निः ॥

मल्लिनाथः सहसेति ॥ अथाग्नेयास्त्राद्वानानन्तरम् उत्रासितजन्तुना भीषितप्राणिकेन स्वनेन ध्वनिना उद्धताट्टहासश्रियं महाट्टहाससंपदं दधत् तेनैवाट्टहासवान् । तत्तुल्यनादवानित्यर्थः । वितताः प्रसारिताः आयता दीर्घाः हेतयो ज्वाला बाहव इव हेतिबाहवो यस्य स वह्नितालो भूतविशेषः स इव सहसा झटिति उच्चैरूर्ध्वमुत्पपात उत्तस्थौ । उपमा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
सा दु द्ध ता ट्ट हा
श्रि मु त्त्रा सि न्तु ना स्व ने
वि ता हे ति बा हु रु च्चै
वे ता वो त्प पा ह्निः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.