खचरैः क्षयमक्षयेऽहिसैन्ये
सुकृतैर्दुष्कृतवत्तदोपनीते ।
अयुगाचिरिव ज्वलन्रुषाथो
रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥

मल्लिनाथः विंशः सर्गः। खचरैरिति ॥ खे चरन्तीति खचरैर्वैनतेयैः । चरेष्टः `तत्पुरुषे कृति बहुलम्` (अष्टाध्यायी ६.३.१४ ) इति लुग्विकल्पः । अक्षये अनन्ते अहिसैन्ये सर्पसङ्घे सुकृतैः हरिस्मरणादिपुण्यैर्दुष्कृतवद्ब्रह्महत्यायेनोवत् । `तत्र तस्येव` (अष्टाध्यायी ५.१.११६ ) इति तत्रार्थे वतिप्रत्ययः । क्षयमुपनीते नाशं गमिते सति तदा तत्काले रुषा पौरुषवैफल्यरोषेण अयुगार्चिः सप्ताचिरिव ज्वलन्दीप्यमानः असौ रिपुश्चैद्यः । उदर्चिष इममौदर्चिषम् आग्नेयं मन्त्रमाजुहाव आहूतवान् । जजापेत्यर्थः । ह्वयतेर्लिद । `अभ्यस्तस्य च` (६।१॥३३) इति द्विर्वचनात्प्रागेव संप्रसारणम् । दुष्कृत वदिति तद्धितगता श्रौती पूर्णोपमा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
रैः क्ष क्ष ये ऽहि सै न्ये
सु कृ तै र्दु ष्कृ त्त दो नी ते
यु गा चि रि ज्व न्रु षा थो
रि पु रौ र्चि मा जु हा न्त्रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.