प्रचलत्पतगेन्द्रपत्रवात-
प्रसभोन्मूलितशैलदत्तमार्गैः ।
भयविह्वलमाशु दन्दशूकै-
र्विवशैराविविशे स्वमेव धाम ॥

मल्लिनाथः प्रचलदिति ॥ प्रचलतां पतगेन्द्राणां ये पत्रवातास्तैः प्रसभं उन्मूलितैराकृष्टैरुत्टिपाटितैः शैलैर्दत्तो मार्गो रन्ध्र येभ्यस्तैः विवशैः परवशैः । निश्चेष्टैरित्यर्थः गर्हितं दशन्ति भृशमिति दन्दशूकैः सः । `दन्दशूको बिलेशयः` इत्यमरः । `लुपसदचर-` (अष्टाध्यायी ३.१.२४ ) इत्यादिना दंशेर्भावगर्हायां यङ् । `जपजभदहदशभञ्जपशां च` (७४।८६) इत्यभ्यासस्य नुगागमः । `यजजपदशां यङः` (३॥ १६६) इति दशेर्यङन्तादुकन्प्रत्ययः । भयेन विह्वलं विक्षिप्तं विचित्रं यथा तथा स्वमेव धाम पातालमेव विविशे तार्क्ष्यपत्रपवनोन्मूलितशैलरन्ध्रवर्त्मनैव पातालं प्रविष्टमित्यर्थः । विशेः कर्मणि लिद । दन्दशूकानां रन्ध्रप्रवेशासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
प्र त्प गे न्द्र त्र वा
प्र भो न्मू लि शै त्त मा र्गैः
वि ह्व मा शु न्द शू कै
र्वि शै रा वि वि शे स्व मे धा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.