Loading data... On slow networks this could take a few minutes.
100%

अभितः क्षुभिताम्बुराशिधीर-
ध्वनिराकृष्टसमूलपादपौघः ।
जनयन्नभवद्युगान्तशङ्का-
मनिलो नागविपक्षपक्षजन्मा ॥

मल्लिनाथः अभीति ॥ अभितः उभयतः क्षुभितो योऽम्बुराशिः उद्वेलाम्बुराशिस्तद्धीरध्वनिर्गम्भीरध्वनिरित्युपमा । आकृष्टाः पाटिताः समूलाः पादपौधास्तरुसमूहा येन सः । अत्र पादपोन्मूलनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । युगान्तशङ्कां जनयन्कल्पक्षयोत्प्रेक्षां जनयन्नित्यपि सैवातिशयोक्तिः । नागविपक्षपक्षजन्मा गरुडपक्षोद्भवोऽनिलोऽभवत् । उदभवदित्यर्थः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
भि तः क्षु भि ता म्बु रा शि धी
ध्व नि रा कृ ष्ट मू पा पौ घः
न्न द्यु गा न्त ङ्का
नि लो ना वि क्ष क्ष न्मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.