Loading data... On slow networks this could take a few minutes.
100%

द्रुतहेमरुचः खगाः खगेन्द्रा-
दलघूदीरितनादमुत्पतन्तः ।
क्षणमैक्षिषतोच्चकैश्चमूभि-
र्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ॥

मल्लिनाथः द्रुतेति ॥ द्रुतहेमरुचः प्रतप्तकाञ्चनभास इत्युपमा । अलघूच्चैरुदीरितनादं उच्चरितघोषं यथा तथा खगेन्द्राद्रुत्मतः उत्पतन्तः उद्भवन्तः खगाः सुपर्णा ज्वलतः प्रज्वलतः सप्तरुचेः सप्तार्चिषोऽग्नेरुच्चकैरूवं प्रसृताः स्फुलिङ्गा इव चमूभिः क्षणमैक्षिषत ईक्षिताः । ईक्षतेः कर्मणि लुङ् । अत्रोपमयोः संकरः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
द्रु हे रु चः गाः गे न्द्रा
घू दी रि ना मु त्प न्तः
क्ष मै क्षि तो च्च कै श्च मू भि
र्ज्व तः प्त रु चे रि स्फु लि ङ्गाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.