अथ सस्मितवीक्षितादवज्ञा-
चलितैकोन्नमितभ्रु माधवेन ।
निजकेतुशिरःश्रितः सुपर्णा-
दुदपप्तन्नयुतानि पक्षिराजाम् ॥

मल्लिनाथः अथेति ॥ अथ नागपाशबन्धनानन्तरं माधवेन कृष्णेनावज्ञया अकिंचिकरत्वादनादरेण चलिता प्रेरिता एका उन्नमिता उत्क्षिप्ता च धूर्यस्मिन्कर्मणि तत्तथा । `गोस्त्रियोरुपसर्जनस्य` (अष्टाध्यायी १.२.४८ ) इति हस्वत्वम् । सस्मितं चैद्यचापत्न्यदर्शनात्समन्दहासं वीक्षितात् निजकेतुशिरःश्रितः निजध्वजाग्रस्थितात् । श्रयतेः क्विप् । सुपर्णात्पक्षिणां राजः राजानः तेषां पक्षिराजां पक्षिराजानां गरुत्मताम् । `राजा राद पार्थिवः` इत्यमरः । `अन्येभ्योऽपि दृश्यते` (अष्टाध्यायी ३.२.१७८ ) इति क्विप् । अयुतानि अयुतसंख्या उदपप्तन्नुत्पेतुः । `पुषादि-` (अष्टाध्यायी ३.१.५५ ) इति लुङि च्लेरडादेशः । `पतः पुम्` (अष्टाध्यायी ७.४.१९ ) इति पुमागमः । `उदभूवन्` इति पाठे `भुवो वुक्` (अष्टाध्यायी ६.४.८८ ) इति वुगागमः । माधवस्य सुपर्णवीक्षणावस्थोचितभूविक्षेपादिचेष्टाविवरणात्स्वभावोक्तिः । तदुक्तं दण्डिना-`नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्च` इति । `जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम्` इति च
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
स्मि वी क्षि ता ज्ञा
लि तै को न्न मि भ्रु मा वे
नि के तु शि रः श्रि तः सु र्णा
दु प्त न्न यु ता नि क्षि रा जाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.