उपमानमलाभि लोलपक्ष-
क्षणविक्षिप्तमहाम्बुवाहमत्स्यैः ।
गगनार्णवमन्तरासुमेरोः
कुलजानां गरुडैरिलाधराणाम् ॥

मल्लिनाथः उपमानमिति ॥ गगनमर्णव इव गगनार्णवस्तमन्तरा । तस्य मध्ये इत्यर्थः । `अन्तरान्तरेणयुक्ते` (अष्टाध्यायी २.३.४ ) इति द्वितीया । अत्रार्णवस्यैकत्वेऽपि तदेकदेशापेक्षया भेदवत्त्वेन मध्यमप्रतियोगित्वसंभवान्न द्वितीयानुपपत्तिः । लोलैः पक्षैः क्षणाद्विक्षिप्ता महाम्बुवाहा मत्स्या इव यैस्तैर्गरुडैर्गरुत्मभिः सुमेरोः कुलजानां हेमाद्विवंश्यानाम् । अन्येषामहिरण्मयतया गरुडसाम्यासंभवादित्यर्थः । इलाधराणां भूधराणाम् । अर्णवान्तश्चराणामित्यर्थः । `गौरिला कुम्भिनी क्षमा` इति कोषः । उपमानं सादृश्यमलाभि अलम्भि । लभेः कर्मणि लुङि `विभाषा चिण्णमुलोः` (अष्टाध्यायी ७.१.६९ ) इति विकल्पान्नुमभावः । अत्रेलाधराणामुपमानमिति व्यस्तोपमाया अन्याभ्यां समासगताभ्यामङ्गाङ्गिभावेन संकरः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
मा ला भि लो क्ष
क्ष वि क्षि प्त हा म्बु वा त्स्यैः
ना र्ण न्त रा सु मे रोः
कु जा नां रु डै रि ला रा णाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.