परिवेष्टितमूर्तयश्च मूला-
दुरगैराशिरसः सरत्नपुष्पैः ।
दधुरायतवल्लिवेष्टिताना-
मुपमानं मनुजा महीरुहाणाम् ॥

मल्लिनाथः परिवेष्टितेति ॥ किंचेति चार्थः । मूलात् । पादमारभ्येत्यर्थः । ल्यब्लोपे पञ्चमी । आशिरसः शिरोन्तम् । अभिविधावाडिति विकल्पादसमासः । रतैरेव पुष्पैः सह वर्तन्ते इति सरत्रपुष्पैः । `तेन सहेति तुल्ययोगे` (अष्टाध्यायी २.२.२८ ) इति बहुव्रीहिः । उरगैः परिवेष्टितमूर्तयो वेष्टिताङ्गा मनुजा आयताभिर्वल्लीभिर्लताभिर्वैष्टितानां महीरुहाणामुपमानं सादृश्यं दधुरित्युपमा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
रि वे ष्टि मू र्त श्च मू ला
दु गै रा शि सः त्न पु ष्पैः
धु रा ल्लि वे ष्टि ता ना
मु मा नं नु जा ही रु हा णाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.