Loading data... On slow networks this could take a few minutes.
100%

कृतमण्डलबन्धमुल्लसद्भिः
शिरसि प्रत्युरसं विलम्बमानैः ।
व्यरुचज्जनता भुजङ्गभोगै-
र्दलितेन्दीवरमालभारिणीव ॥

मल्लिनाथः कृतेति ॥ जनता जनसमूहः । `ग्रामजन-` (अष्टाध्यायी ४.२.४३ ) इत्यादिना सामूहिकस्तल्प्रत्ययः । शिरसि कृतो मण्डलबन्धो वलयीभावो यस्मिन्कर्मणि तत्तथा उल्लसद्भिः प्रत्युरसं उरसि उरसि । `प्रतेरुरसः सप्तमीस्थात्` (अष्टाध्यायी ५.४.८२ ) इति समासान्तोऽच्प्रत्ययः । विलम्बमानैर्विशेषेण लम्बमानैः भुजंगभोगैरहिकायैः दलितेन्दीवरमालभारिणी विकसितनीलोत्पलमालभारिणीवेत्युप्रेक्षा । व्यरुचध्यरोचिष्ट । `धुन्यो लुङि` (१॥३।९१) इति विकल्पात्परस्मैपदम्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
कृ ण्ड न्ध मु ल्ल द्भिः
शि सि प्र त्यु सं वि म्ब मा नैः
व्य रु ज्ज ता भु ङ्ग भो गै
र्द लि ते न्दी मा भा रि णी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.