बहुलाञ्जनपङ्कपट्टनील-
द्युतयो देहमितस्ततः श्रमन्तः ।
दधिरे फणिनस्तुरङ्गमेषु
स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ॥

मल्लिनाथः बहुलेति ॥ बहुलाञ्जनस्य सान्द्रकज्जलस्य पङ्कपट्टः पङ्कघनस्तद्वन्नीलद्युतयः श्यामभासः । देहं शरीरमितस्ततः पुच्छपार्थादिस्थानेषु श्रयन्तो भजन्तः फणिनस्तुरंगमेषु स्फुटान्युज्वलानि यानि पल्याणेषु पल्ययनेषु निबद्धानि वर्ध्राणि वरत्राः । `वर्ध्रं त्रपुवरत्रयोः` इति विश्वः । तेषां लीलां शोभां दधिरे दधुः । वर्धलीलामित्यत्रासंभवद्वस्तुसंबन्धा निदर्शनोक्तलक्षणा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
हु ला ञ्ज ङ्क ट्ट नी
द्यु यो दे मि स्त तः श्र न्तः
धि रे णि स्तु ङ्ग मे षु
स्फु ल्या नि द्ध र्ध्र ली लाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.