Loading data... On slow networks this could take a few minutes.
100%

सविषश्वसनोद्धतोरुधूम-
व्यवधिम्लानमरीचि पन्नगानाम् ।
उपरागवतेव तिग्मभासा
वपुरौदुम्बरमण्डलाभमूहे ॥

मल्लिनाथः सेति ॥ तिग्मभासा सूर्येण उपरागवता राहुग्रासवतेव । राहुग्रस्तेनेवेत्यर्थः । `उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च` इत्यमरवचनं ग्रासस्याप्युपलक्षणम् । पन्नगानां सविषैः श्वसनैः फूत्कारैरुद्धतेनोरुधूमेन यो व्यवधिस्तिरोधानं तेन म्लाना निष्प्रभा मरीचयो यस्य तत् । अत एवौदुम्बरमण्डलाभं ताम्रपिण्डसच्छायम् । `अथ ताम्रकम् । शुल्बं म्लेच्छमुखव्यष्टवरिष्ठोदुम्बराणि च` इत्यमरः । वपुरूहे ऊढम् । वहेः कर्मणि लिट् । यजादित्वात्संप्रसारणम्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
वि श्व नो द्ध तो रु धू
व्य धि म्ला री चि न्न गा नाम्
रा ते ति ग्म भा सा
पु रौ दु म्ब ण्ड ला मू हे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.