दधतस्तनिमानमानपूर्व्या
बभुरक्षिश्रवसो मुखे विशालाः ।
भरतज्ञकविप्रणीतकाव्य-
ग्रथिताङ्का इव नाटकप्रपञ्चाः ॥

मल्लिनाथः दधत इति ॥ मुखे मुखभागे मुखसंधौ च विशालाः विस्तृता आनुपूर्व्या अनुक्रमेण तनिमानं तनुत्वं मुखादन्यत्र शरीरे उत्तरोत्तरं तनुत्वं दधतः, अन्यत्र प्रतिमुखादिसंधिषु गोपुच्छवत्संक्षिप्तत्वं दधानाः अक्षिश्रवसः सर्पाः भरतज्ञो नाट्यशास्त्रज्ञः । `भरतो नाट्यशास्त्रेऽपि` इति विश्वः । तेन कविना प्रणीतं प्रकल्पितं यत्काव्यं कविकर्म लक्षणया काव्यार्थः कथावस्तु । ब्राह्मणादित्वात्यष्यञ् प्रत्ययः । तेन ग्रथिता गुम्फिता अङ्काः परिच्छेदरूपा अवान्तरसंदर्भविशेषा येषु ते तथोक्ता नाटकप्रपञ्चा नाटकविस्तारा इव बभुरित्युपमा । `प्रबन्धा` इति क्वचित्पाठः । `प्रत्यक्षनेतृचरितो बिन्दुबीजपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ `(दशरूपके ३।३०,३१) इति अङ्कलक्षणम् । `मुखं प्रतिमुखं गर्भोऽवमर्श उपसंहृतिः` (दशरूपके १।२४) इति संधयः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
स्त नि मा मा पू र्व्या
भु क्षि श्र सो मु खे वि शा लाः
ज्ञ वि प्र णी का व्य
ग्र थि ता ङ्का ना प्र ञ्चाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.